Book 7 • Chapter 95
Sarga 95
17 verses
Verse 1
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः
Verse 2
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ तस्याः परिषदो मध्ये रामो वचनमब्रवीत् दूताञ्छुद्धसमाचारानाहूयात्ममनीषया
Verse 3
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम्
Verse 4
परिषदो मध्ये रामो वचनमब्रवीत् यदि शुद्धसमाचारा यदि वा वीतकल्मषा करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्
Verse 5
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् प्रत्ययं दातुकामायास्ततः शंसत मे लघु
Verse 6
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा करोतु परिषन्मध्ये शोधनार्थं ममैव च
Verse 7
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः
Verse 8
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च
Verse 9
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत्
Verse 10
एवं भवतु भद्रं वो यथा वदति राघवः तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः
Verse 11
तथोक्ता मुनिना सर्वे राजदूता महौजसम् प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे
Verse 12
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत
Verse 13
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते
Verse 14
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः सर्वेषामृषिमुख्यानां साधुवादो महानभूत्
Verse 15
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः
Verse 16
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः
Verse 17
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः
0:000:00
Speed: