Book 7 • Chapter 94
Sarga 94
32 verses
Verse 1
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम्
Verse 2
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम्
Verse 3
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत्
Verse 4
अथ कर्मान्तरे राजा समाहूय महामुनीन् पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा
Verse 5
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान्
Verse 6
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान्
Verse 7
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् क्रियाकल्पविदश्चैव तथा कार्यविदो जनान्
Verse 8
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः हेतूपचारकुशलान् वचने चापि हैतुकान्
Verse 9
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान्
Verse 10
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् एतान्सर्वान्समानीय गातारौ समवेशयत्
Verse 11
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ
Verse 12
ऊचुः परस्परं चेदं सर्व एव समन्ततः उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ
Verse 13
जटिलौ यदि न स्यातां न वल्कलधरौ यदि विशेषं नाधिगच्छामो गायतो राघवस्य च
Verse 14
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ
Verse 15
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा
Verse 16
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम्
Verse 17
ततो ऽपराह्णसमये राघवः समभाषत श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः
Verse 18
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक्
Verse 19
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ
Verse 20
वन्येन फलमूलेन निरतौ वनवासिनौ सुवर्णेन हिरण्येन किं करिष्यावहे वने
Verse 21
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः
Verse 22
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ
Verse 23
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः
Verse 24
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ
Verse 25
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम्
Verse 26
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् उपाख्यानशतं चैव भार्गवेण तपस्विना
Verse 27
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च काण्डानि षट् कृतानीह सोत्तराणि महात्मना कृतानि गुरुणास्माकमृषिणा चरितं तव
Verse 28
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते
Verse 29
सोत्तराणि महात्मना यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः
Verse 30
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः
Verse 31
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत्
Verse 32
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम्
0:000:00
Speed: