🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 93

Sarga 93

19 verses

Verse 1
वर्तमाने तथाभूते यज्ञे  परमाद्भुते सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः
Verse 2
 दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान्
Verse 3
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः
Verse 4
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान्
Verse 5
 शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ कृत्स्नं रामायणं काव्यं गायेथां परया मुदा
Verse 6
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु  रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु 
Verse 7
रामस्य भवनद्वारि यत्र कर्म  कुर्वते ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः
Verse 8
इमानि  फलान्यत्र स्वादूनि विविधानि  जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम्
Verse 9
 यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै मूलानि  सुमृष्टानि नगराद्बहिरास्यथः
Verse 10
यदि शब्दापयेद्रामः श्रवणाय महीपतिः ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम्
Verse 11
दिवसे विंशतिः सर्गा गेया मधुरया गिरा प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा
Verse 12
लोभश्चापि  कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया किं धनेनाश्रमस्थानां फलमूलोपजीविना
Verse 13
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम्
Verse 14
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ
Verse 15
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् पिता हि सर्वभूतानां राजा भविति धर्मतः
Verse 16
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम्
Verse 17
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः
Verse 18
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ तथैव करवावेति निर्जग्मतुररिन्दमौ
Verse 19
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम्
0:000:00
Speed: