🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 92

Sarga 92

19 verses

Verse 1
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः हयं लक्षणसम्पन्नं कृष्णसारं मुमोच 
Verse 2
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य  ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम्
Verse 3
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत्
Verse 4
नैमिषे वसतस्तस्य सर्व एव नराधिपाः आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत्
Verse 5
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः
Verse 6
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा
Verse 7
वानराश्च महात्मानः सुग्रीवसहितास्तदा विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्
Verse 8
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम्
Verse 9
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत लक्ष्मणेनागुप्ता  हयचर्या प्रवर्तत ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम्
Verse 10
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः
Verse 11
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः विविधानि  गौडानि खाण्डवानि तथैव 
Verse 12
 निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत
Verse 13
 कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते
Verse 14
ये  तत्र महात्मानो मुनयश्चिरजीविनः नास्मरंस्तादृशं यज्ञं नाप्यासीत्  कदाचन
Verse 15
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव 
Verse 16
रजतानां सुवर्णानामश्मनामथ वाससाम् अनिशं दीयमानानां राशिः समुपदृश्यते
Verse 17
 शक्रस्य धनेशस्य यमस्य वरुणस्य वा ईदृशो दृष्टपूर्वो  एवमूचुस्तपोधनाः
Verse 18
सर्वत्र वानरास्तस्थुः सर्वत्रैव  राक्षसाः वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम्
Verse 19
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः संवत्सरमथो साग्रं वर्तते   हीयते
0:000:00
Speed: