🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 91

Sarga 91

26 verses

Verse 1
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः
Verse 2
वसिष्ठं वामदेवं  जाबालिमथ कश्यपम् द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान्
Verse 3
एतान्सर्वान्समानीय मन्त्रयित्वा  लक्ष्मण हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना
Verse 4
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः द्विजान्सर्वान्समाहूय दर्शयामास राघवम्
Verse 5
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् राघवं सुदुराधर्षमाशीर्भिः समपूजयन्
Verse 6
प्राञ्जलिः  तदा भूत्वा राघवो द्विजसत्तमान् आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः
Verse 7
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः
Verse 8
 तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा
Verse 9
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने
Verse 10
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम्
Verse 11
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः अश्वमेधं महायज्ञमायात्वतुलविक्रमः
Verse 12
राजानश्च महाभागा ये मे प्रियचिकीर्षवः सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम्
Verse 13
देशान्तरगता ये  द्विजा धर्मसमाहिताः आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण
Verse 14
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः देशान्तरगताः सर्वे सदाराश्च द्विजातयः तथैव तालावचरास्तथैव नटनर्तकाः
Verse 15
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम्
Verse 16
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः
Verse 17
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् अनुभूय महायज्ञं नैमिशे रघुनन्दन
Verse 18
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः
Verse 19
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल
Verse 20
चणकानां कुलित्थानां माषाणां लवणस्य  अतो ऽनुरूपं स्नेहं  गन्धं सङ्क्षिप्तमेव 
Verse 21
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना
Verse 22
अन्तरा पण्यवीथ्यश्च सर्वे  नटनर्तकाः सूदा नार्यश्च बहवो नित्यं यौवनशालिनः
Verse 23
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः
Verse 24
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि 
Verse 25
काञ्चनीं मम पत्नीं  दीक्षायां ज्ञांश्च कर्मणि अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः
Verse 26
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः
0:000:00
Speed: