Book 7 • Chapter 90
Sarga 90
24 verses
Verse 1
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् उवाच लक्ष्मणो भूयो भरतश्च महायशाः
Verse 2
इला सा सोमपुत्रस्य संवत्सरमथोषिता अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि
Verse 3
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः रामः पुनरुवाचेमां प्रजापतिसुते कथाम्
Verse 4
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् संवर्तं परमोदारमाजुहाव महायशाः
Verse 5
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम्
Verse 6
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान्
Verse 7
अयं राजा महाबाहुः कर्दमस्य इलः सुतः जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम्
Verse 8
तेषां संवदतामेव तमाश्रममुपागमत् कर्दमस्तु महातेजा द्विजैः सह महात्मभिः
Verse 9
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ओङ्कारश्च महातेजास्तमाश्रममुपागमत्
Verse 10
ते सर्वे हृष्टमनसः परस्परसमागमे हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन्
Verse 11
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि
Verse 12
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम्
Verse 13
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति
Verse 14
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत्
Verse 15
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः रुद्रश्च परमं तोषमाजगाम महायशाः
Verse 16
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ
Verse 17
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम्
Verse 18
तथा वदति देवेशे द्विजास्ते सुसमाहिताः प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला
Verse 19
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः इलायै सुमहातेजा दत्त्वा चान्तरधीयत
Verse 20
निवृत्ते हयमेधे च गतश्चादर्शनं हरः यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः
Verse 21
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् निवेशयामास पुरं प्रतिष्ठानं यशस्करम्
Verse 22
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली
Verse 23
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान्
Verse 24
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम्
0:000:00
Speed: