Book 7 • Chapter 89
Sarga 89
25 verses
Verse 1
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम्
Verse 2
अथ रामः कथामेतां भूय एव महायशाः कथयामास धर्मात्मा प्रजापतिसुतस्य वै
Verse 3
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव
Verse 4
सोमस्याहं सुदयितः सुतः सुरुचिरानने भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा
Verse 5
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम्
Verse 6
अहं कामचरी सौम्य तवास्मि वशवर्तिनी प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु
Verse 7
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः स वै कामी सह तया रेमे चन्द्रमसः सुतः
Verse 8
बुधस्य माधवो मासस्तामिलां रुचिराननाम् गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः
Verse 9
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत
Verse 10
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत
Verse 11
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः
Verse 12
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा
Verse 13
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः
Verse 14
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः फलमूलाशनो वीर निवसेह यथासुखम्
Verse 15
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम्
Verse 16
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि
Verse 17
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते
Verse 18
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः
Verse 19
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् सान्त्वपूर्वमथोवाच वासस्त इह रोचताम्
Verse 20
न सन्तापस्त्वया कार्यः कार्दमेय महाबल संवत्सरोषितस्येह कारयिष्यामि ते हितम्
Verse 21
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना
Verse 22
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा मासं पुरुषभावेन धर्मबुद्धिं चकार सः
Verse 23
ततः सा नवमे मासि इला सोमसुतात्सुतम् जनयामास सुश्रोणी पुरूरवसमूर्जितम्
Verse 24
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् बुधस्य समवर्णभमिला पुत्रं महाबलम्
Verse 25
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् कथाभी रमयामास धर्मयुक्ताभिरात्मवान्
0:000:00
Speed: