Book 7 • Chapter 88
Sarga 88
24 verses
Verse 1
तां कथामिलसम्बद्धां रामेण समुदीरिताम् लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ
Verse 2
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः
Verse 3
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ
Verse 4
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम्
Verse 5
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः
Verse 6
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा
Verse 7
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः पर्वताभोगविवरे तस्मिन्रेमे इला तदा
Verse 8
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम्
Verse 9
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम्
Verse 10
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् यशस्करं कामकरं कारुण्ये पर्यवस्थितम्
Verse 11
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन
Verse 12
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि
Verse 13
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका
Verse 14
न देवीषु न नागीषु नासुरीष्वप्सरःसु च दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता
Verse 15
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः इति बुद्धिं समास्थाय जलात्कूलमुपागमत्
Verse 16
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे
Verse 17
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी किमर्थमागता चैव सर्वमाख्यात मा चिरम्
Verse 18
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा
Verse 19
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ
Verse 20
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः
Verse 21
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः
Verse 22
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम्
Verse 23
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ
Verse 24
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा
0:000:00
Speed: