Book 7 • Chapter 87
Sarga 87
29 verses
Verse 1
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः प्रत्युवाच महातेजाः प्रहसन्राघवो वचः
Verse 2
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण वृत्रघातमशेषेण वाजिमेधफलं च यत्
Verse 3
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः
Verse 4
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत्
Verse 5
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः
Verse 6
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः
Verse 7
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः
Verse 8
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने चैत्रे मनोरमे मासि सभृत्यबलवाहनः
Verse 9
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः
Verse 10
नानामृगाणामयुतं वध्यमानं महात्मना यत्र जातो माहासेनस्तं देशमुपचक्रमे
Verse 11
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः रमयामास दुर्धर्षः सर्वैरनुचरैः सह
Verse 12
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे
Verse 13
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा
Verse 14
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे
Verse 15
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन
Verse 16
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत्
Verse 17
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् जगाम शरणं राजा सभृत्यबलवाहनः
Verse 18
ततः प्रहस्य वरदः सह देव्या महेश्वरः प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम्
Verse 19
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल पुरुषत्वमृते सौम्य वरं वरय सुव्रत
Verse 20
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात्
Verse 21
ततः शोकेन महता शैलराजसुतां नृपः प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना
Verse 22
ईशे वराणां वरदे लोकानामसि भामिनी अमोघदर्शने देवी भज सौम्येन चक्षुषा
Verse 23
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता
Verse 24
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि
Verse 25
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत्
Verse 26
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः
Verse 27
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति
Verse 28
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम्
Verse 29
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत्
0:000:00
Speed: