Book 7 • Chapter 86
Sarga 86
21 verses
Verse 1
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे
Verse 2
ततो हते महावीर्ये वृत्रे देवभयङ्करे ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा
Verse 3
सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः
Verse 4
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना
Verse 5
निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत्
Verse 6
क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्
Verse 7
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः
Verse 8
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन्
Verse 9
ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर
Verse 10
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ
Verse 11
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः चतुर्धा विभजात्मानमात्मनैव दुरासदे
Verse 12
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा
Verse 13
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी
Verse 14
भूम्यामहं सर्वकालमेकेनांशेन सर्वदा वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः
Verse 15
यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी
Verse 16
हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः
Verse 17
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे तथा भवतु तत्सर्वं साधयस्व यदीप्सितम्
Verse 18
ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे विज्वरः स च पूतात्मा वासवः समपद्यत
Verse 19
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत्
Verse 20
ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन यजस्व सुमहाभाग हयमेधेन पार्थिव
Verse 21
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः
0:000:00
Speed: