🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 85

Sarga 85

22 verses

Verse 1
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः वृत्रघातमशेषेण कथयेत्याह सुव्रत
Verse 2
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः भूय एव कथां दिव्यां कथयामास सुव्रतः
Verse 3
सहस्राक्षवचः श्रुत्वा सर्वेषां  दिवौकसाम् विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान्
Verse 4
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य  महात्मनः तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम्
Verse 5
अवश्यं करणीयं  भवतां सुखमुत्तमम् तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते
Verse 6
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः तेन वृत्रं सहस्राक्षो वधिष्यति  संशयः
Verse 7
एकांशो वासवं यातु द्वितीयो वज्रमेव तु तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति
Verse 8
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् एवमेतन्न सन्देहो यथा वदसि दैत्यहन्
Verse 9
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः भजस्व परमोदार वासवं स्वेन तेजसा
Verse 10
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः
Verse 11
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम्
Verse 12
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् कथमेनं वधिष्यामः कथं  स्यात्पराजयः
Verse 13
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि
Verse 14
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत्
Verse 15
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः चिन्तयानो जगामाशु लोकस्यान्तं महायशाः
Verse 16
तमिन्द्रं ब्रह्महत्या  ऽशु गच्छन्तमनुगच्छति अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत्
Verse 17
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन्
Verse 18
त्वं गतिः परमेशान पूर्वजो जगतः पिता रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
Verse 19
हतश्चायं त्वया वृत्रो ब्रह्महत्या  वासवम् बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश
Verse 20
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्
Verse 21
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम्
Verse 22
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम्
0:000:00
Speed: