🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 84

Sarga 84

18 verses

Verse 1
तथोक्तवति रामे तु भरते  महात्मनि लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम्
Verse 2
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् पावनस्तव दुर्धर्षो रोचतां रघुनन्दन
Verse 3
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः
Verse 4
पुरा किल महाबाहो देवासुरसमागमे वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः
Verse 5
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः
Verse 6
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या  परिनिष्ठितः शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः
Verse 7
तस्मिन्प्रशासति तदा सर्वकामदुघा मही रसवन्ति प्रभूनानि मूलानि  फलानि 
Verse 8
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः  राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम्
Verse 9
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् तपो हि परमं श्रेयः सम्मोहमितरत्सुखम्
Verse 10
 निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः
Verse 11
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच 
Verse 12
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम्
Verse 13
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः
Verse 14
तं चैनं परमोदारमुपेक्षसि महाबलम् क्षणं हि  भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर
Verse 15
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः तदाप्रभृति लोकानां नाथत्वमुपलब्धवान्
Verse 16
 त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत्
Verse 17
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः वृत्रघातेन महता तेषां साह्यं कुरुष्व 
Verse 18
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् असह्यमिदमन्येषामगतीनां गतिर्भवान्
0:000:00
Speed: