Book 7 • Chapter 83
Sarga 83
20 verses
Verse 1
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत्
Verse 2
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ परिष्वज्य तदा रामो वाक्यमेतदुवाच ह
Verse 3
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ
Verse 4
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम्
Verse 5
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः
Verse 6
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः सुहुतेन सुयज्ञेन वरुणत्वमुपागमत्
Verse 7
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम्
Verse 8
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः
Verse 9
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह
Verse 10
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा प्रतिष्ठिता महाबाहो यशश्चामितविक्रम
Verse 11
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः निरीक्षन्ते महात्मानं लोकानाथं यथा वयम्
Verse 12
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव
Verse 13
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते
Verse 14
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः
Verse 15
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते
Verse 16
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः
Verse 17
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ
Verse 18
इदं वचनमक्लीबं त्वया धर्मसमाहितम् व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम्
Verse 19
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च
Verse 20
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते
0:000:00
Speed: