🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 82

Sarga 82

20 verses

Verse 1
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम्
Verse 2
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः
Verse 3
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत्
Verse 4
 भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत्
Verse 5
प्रभाते काल्यमुत्थाय कृत्वा  ऽह्निकमरिन्दमः ऋषिं समुपचक्राम गमनाय रघूत्तमः
Verse 6
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि
Verse 7
धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः
Verse 8
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् उवाच परमप्रीतो धर्मनेत्रस्तपोधनः
Verse 9
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् पावनः सर्वभूतानां त्वमेव रघुनन्दन
Verse 10
मुहूर्तमपि राम त्वां ये  पश्यन्ति केचन पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः
Verse 11
ये  त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि हतास्ते यमदण्डेन सद्यो निरयगामिनः
Verse 12
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव
Verse 13
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान्
Verse 14
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम्
Verse 15
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम्
Verse 16
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः
Verse 17
स्वस्थः  ददृशे रामः पुष्पके हेमभूषिते शशी मेघसमीपस्थो यथा जलधरागमे
Verse 18
ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत्
Verse 19
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति  प्रभुः
Verse 20
कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ममागमनमाख्याय शब्दापयत मा चिरम्
0:000:00
Speed: