🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 81

Sarga 81

22 verses

Verse 1
 मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत
Verse 2
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे  विराजतीम्
Verse 3
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच 
Verse 4
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव
Verse 5
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति
Verse 6
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः
Verse 7
सप्तरात्रेण राजासौ सभृत्यबलवाहनः पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः
Verse 8
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः धक्ष्यते पांसुवर्षेण महता पाकशासनः
Verse 9
सर्वसत्वानि यानीह स्थावराणि चराणि  महता पांसुवर्षेण विलयं सर्वतो ऽगमन्
Verse 10
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति
Verse 11
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत्
Verse 12
श्रुत्वा तूशनसो वाक्यं सो  ऽश्रमावसथो जनः निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः
Verse 13
 तथोक्त्वा मुनिजनमरजामिदमब्रवीत् इहैव वस दुर्मेधे आश्रमे सुसमाहिता
Verse 14
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम्
Verse 15
त्वत्समीपे  ये सत्त्वा वासमेष्यन्ति तां निशाम् अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा
Verse 16
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा तथेति पितरं प्राह भार्गवं भृशदुःखिता इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत्
Verse 17
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना
Verse 18
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते
Verse 19
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत्
Verse 20
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते
Verse 21
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः कृतोदका नरव्याघ्र आदित्यं पर्युपासते
Verse 22
 तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः रविरस्तं गतो राम गच्छोदकमुपस्पृश
0:000:00
Speed: