Book 7 • Chapter 80
Sarga 80
18 verses
Verse 1
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः अस्यामेवापरं वाक्यं कथायामुपचक्रमे
Verse 2
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम्
Verse 3
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे
Verse 4
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम्
Verse 5
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत्
Verse 6
कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने
Verse 7
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम्
Verse 8
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम्
Verse 9
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः
Verse 10
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम्
Verse 11
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत्
Verse 12
दास्यते चानवद्याङ्ग तव मा याचितः पिता
Verse 13
एवं ब्रुवाणामरजां दण्डः कामवशं गतः प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम्
Verse 14
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने
Verse 15
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः भक्तं भजस्व मां भीरु भजमानं सुविह्वलम्
Verse 16
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे
Verse 17
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् नगरं प्रययावाशु मधुमन्तमनुत्तमम्
Verse 18
अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम्
0:000:00
Speed: