Book 7 • Chapter 79
Sarga 79
20 verses
Verse 1
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे
Verse 2
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम्
Verse 3
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः
Verse 4
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे
Verse 5
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः
Verse 6
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह
Verse 7
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह
Verse 8
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः दण्डेन च प्रजा रक्ष मा च दण्डमकारणे
Verse 9
अपराधिषु यो दण्डः पात्यते मानवेषु वै स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्
Verse 10
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक धर्मो हि परमो लोके कुर्वतस्ते भविष्यति
Verse 11
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम्
Verse 12
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत्
Verse 13
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् जनयामास धर्मात्मा शतं देवसुतोपमान्
Verse 14
तेषामवरजस्तात सर्वेषां रघुनन्दन मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान्
Verse 15
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति
Verse 16
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम
Verse 17
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम्
Verse 18
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो पुरोहितं तूशनसं वरयामास सुव्रतम्
Verse 19
एवं स राजा तद्राज्यमकरोत्सपुरोहितः प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा
Verse 20
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः
0:000:00
Speed: