🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 78

Sarga 78

30 verses

Verse 1
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् प्राञ्जलिः प्रत्युवाचेदं  स्वर्गी रघुनन्दन
Verse 2
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज
Verse 3
पुरा वैदर्भको राजा पिता मम महायशाः सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान्
Verse 4
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत्
Verse 5
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् तत्राहं कृतवान्राज्यं धर्म्यं  सुसमाहितः
Verse 6
एवं वर्षसहस्राणि समतीतानि सुव्रत राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः
Verse 7
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम कालधर्मं हृदि न्यस्य ततो वनमुपागमम्
Verse 8
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे
Verse 9
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् इदं सरः समासाद्य तपस्तप्तं मया चिरम्
Verse 10
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम्
Verse 11
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच 
Verse 12
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम्
Verse 13
आहारः कश्च मे देव तन्मे ब्रूहि पितामह
Verse 14
पितामहस्तु मामाह तवाहारः सुदेवज स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः
Verse 15
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् अनुप्तं रोहते श्वेत  कदाचिन्महामते
Verse 16
तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप  हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै
Verse 17
दत्तं  ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया
Verse 18
 त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति
Verse 19
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते
Verse 20
 हि तारयितुं सौम्य शक्तः सुरगणानपि किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम्
Verse 21
सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् आहारं गर्हितं स्वशरीरं द्विजोत्तम
Verse 22
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा
Verse 23
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय अन्येषां  गतिर्ह्यत्र कुम्भयोनिमृते द्विजम्
Verse 24
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि
Verse 25
इदं तावत्सुवर्णं  धनं वस्त्राणि  द्विज भक्ष्यं भोज्यं  ब्रह्मर्षे ददात्याभरणानि 
Verse 26
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि
Verse 27
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् तारणायोपजग्राह तदाभरणमुत्तमम्
Verse 28
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे मानुषः पूर्वको देहो राजर्षेर्विननाश 
Verse 29
प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम्
Verse 30
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम्
0:000:00
Speed: