🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 77

Sarga 77

22 verses

Verse 1
पुरा त्रेतायुगे राम बभूव बहुविस्तरम् समन्ताद्योजनशतं विमृगं पक्षिवर्जितम्
Verse 2
तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् अहमाक्रमितुं सौम्य तदरण्यमुपागमम्
Verse 3
तस्य रूपमरण्यस्य निर्देष्टुं  शशाक  फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः
Verse 4
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
Verse 5
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम्
Verse 6
अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् समीपे तस्य सरसो महदद्भुतमाश्रमम्
Verse 7
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ
Verse 8
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित्
Verse 9
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप
Verse 10
तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो
Verse 11
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् विमानं परमोदारं हंसयुक्तं मनोजवम्
Verse 12
अत्यर्थं स्वर्गिणं  विमाने रघुनन्दन उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम्
Verse 13
गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः क्ष्वेलयन्ति तथा चान्या नृत्यन्ति  तथा ऽपराः
Verse 14
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम्
Verse 15
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् पश्यतो मे तदा राम विमानादवरुह्य  तं शवं भक्षयामास  स्वर्गी रघुनन्दन
Verse 16
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे
Verse 17
उपस्पृश्य यथान्यायं  स्वर्गी रघुपुङ्गव आरोढुमुपचक्राम विमानवरमुत्तमम्
Verse 18
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ
Verse 19
को भवान्देवसङ्काश आहारश्च विगर्हितः त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि
Verse 20
कस्य स्यादीदृशो भाव आहारो देवसम्मतः आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः
Verse 21
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम्
Verse 22
इत्येवमुक्तः  नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा  श्रुत्वा  वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति
0:000:00
Speed: