🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 76

Sarga 76

52 verses

Verse 1
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच 
Verse 2
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः देवत्वं पार्थये राम सशरीरो महायशः
Verse 3
 मिथ्या ऽहं वदे राम देवलोकजिगीषया शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम्
Verse 4
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः
Verse 5
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः
Verse 6
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात 
Verse 7
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् सुरकार्यमिदं सौम्य सुकृतं ते महामते
Verse 8
गृहाण  वरं सौम्य यत्त्वमिच्छस्यरिन्दम स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन
Verse 9
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम्
Verse 10
यदि देवाः प्रसन्ना मे द्विजपुत्रः  जीवतु दिशन्तु वरमेतं मे इप्सितं परमं मम
Verse 11
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम्
Verse 12
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम्
Verse 13
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम्
Verse 14
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः
Verse 15
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत
Verse 16
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव
Verse 17
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः द्वादशं हि गतं वर्षं जलशय्यां समासतः
Verse 18
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम्
Verse 19
 तथेति प्रतिज्ञाय देवानां रघुनन्दनः आरुरोह विमानं तं पुष्पकं हेमभूषितम्
Verse 20
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम्
Verse 21
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः
Verse 22
प्रतिगृह्य ततः पूजां सम्पूज्य  महामुनिम् जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः
Verse 23
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य  ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम्
Verse 24
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा आतिथ्यं परमं प्राप्य निषसाद नराधिपः
Verse 25
तमुवाच महातेजाः कुम्भयोनिर्महातपाः स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव
Verse 26
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः
Verse 27
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः
Verse 28
उष्यतां चेह रजनी सकाशे मम राघव प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि
Verse 29
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः
Verse 30
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव
Verse 31
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि
Verse 32
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप
Verse 33
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम्
Verse 34
अथोवाच महात्मानमिक्ष्वाकूणां महारथः रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन्
Verse 35
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव
Verse 36
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः
Verse 37
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः
Verse 38
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् सुराणां स्थापितो राजा त्वया देव शतक्रतुः
Verse 39
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि  वसामो विना राज्ञा एष नो निश्चयः परः
Verse 40
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम्
Verse 41
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत
Verse 42
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः
Verse 43
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम्
Verse 44
तत्रैन्द्रेण  भागेन महीमाज्ञापयन्नृपः वारुणेन तु भागेन वपुः पुष्यति पार्थिवः
Verse 45
कौबेरेण तु भागेन वित्तमासां ददौ तदा यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म  प्रजाः
Verse 46
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो
Verse 47
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् तद्रामः प्रतिजग्राह मुनेराभरणं वरम्
Verse 48
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे
Verse 49
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम्
Verse 50
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः आश्चर्याणां बहूनां हि निधिः परमको भवान्
Verse 51
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे
Verse 52
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम्
0:000:00
Speed: