Book 7 • Chapter 75
Sarga 75
19 verses
Verse 1
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्
Verse 2
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय
Verse 3
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः यथा न क्षीयते बालस्तथा सौम्य विधीयताम्
Verse 4
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः विपत्तिः परिभेदो वा न भवेच्च तथा कुरु
Verse 5
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् मनसा पुष्पकं दध्यावागच्छेति महायशाः
Verse 6
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः आजगाम मुहूर्तेन समीपे राघवस्य वै
Verse 7
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप वश्यस्तव महाबाहो किङ्करः समुपस्थितः
Verse 8
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत
Verse 9
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ
Verse 10
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम्
Verse 11
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः
Verse 12
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः
Verse 13
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः
Verse 14
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम्
Verse 15
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत
Verse 16
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम्
Verse 17
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस
Verse 18
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव
Verse 19
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः
0:000:00
Speed: