🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 74

Sarga 74

33 verses

Verse 1
तथा तु करुणं तस्य द्विजस्य परिदेवनम् शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्
Verse 2
 दुःखेन  सन्तप्तो मन्त्रिणस्तानुपाह्वयत् वसिष्ठं वामदेवं  भ्रातरौ सह नैगमान्
Verse 3
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन्
Verse 4
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः
Verse 5
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः
Verse 6
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते
Verse 7
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम्
Verse 8
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन
Verse 9
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन
Verse 10
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः
Verse 11
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः
Verse 12
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे
Verse 13
ब्रह्मक्षत्रं  तत्सर्वं यत्पूर्वमपरं  यत् युगयोरुभयोरासीत्समवीर्यसमन्वितम्
Verse 14
अपश्यंस्तु  ते सर्वे विशेषमधिकं ततः स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम्
Verse 15
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते अधर्मः पादमेकं तु पातयत्पृथिवीतले
Verse 16
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति
Verse 17
आमिषं यच्च पूर्वेषां राजसं  मलं भृशम् अनृतं नाम तद्भूतं पादेन पृथिवीतले
Verse 18
अनृतं पातयित्वा तु पादमेकमधर्मतः ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम्
Verse 19
पतिते त्वनृते तस्मिन्नधर्मे  महीतले शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः
Verse 20
त्रेतायुगे  वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः
Verse 21
 धर्मः परमस्तेषां वैश्यशूद्रं समागमत् पूजां  सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः
Verse 22
एतस्मिन्नन्तरे तेषामधर्मे चानृते   ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम
Verse 23
ततः पादमधर्मस्स द्वितीयमवतारयत् ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत
Verse 24
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ
Verse 25
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत्
Verse 26
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः  शुद्धो लभते धर्मं युगतस्तु नरर्षभ हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः
Verse 27
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः
Verse 28
 वै विषयपर्यन्ते तव राजन्महातपाः अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम्
Verse 29
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः क्षिप्रं  नरकं याति   राजा  संशयः
Verse 30
अधीतस्य  तप्तस्य कर्मणः सुकृतस्य  षष्ठं भजति भागं तु प्रजा धर्मेण पालयन्
Verse 31
षङ्भागस्य  भोक्ता ऽसौ रक्षते  प्रजाः कथम्
Verse 32
 त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर
Verse 33
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् भविष्यति नरश्रेष्ठ बालस्यास्य  जीवितम्
0:000:00
Speed: