Book 7 • Chapter 73
Sarga 73
19 verses
Verse 1
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्
Verse 2
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः मृतं बालमुपादाय राजद्वारमुपागमत्
Verse 3
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह
Verse 4
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम्
Verse 5
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् अकाले कालमापन्नं मम दुःखाय पुत्रक
Verse 6
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः अहं च जननी चैव तव शोकेन पुत्रक
Verse 7
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम्
Verse 8
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्
Verse 9
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् मृत्युरप्राप्तकालानां रामस्य विषये यथा
Verse 10
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः यथा हि विषयस्थानां बालानां मृत्युरागतः
Verse 11
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्
Verse 12
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ब्रह्महत्यां ततो राम समुपेत्य सुखी भव
Verse 13
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल
Verse 14
इदं तु पतितं तस्मात्तव राम वशे स्थिताः कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम्
Verse 15
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम्
Verse 16
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः असद्वृत्ते तु नृपतावकाले म्रियते जनः
Verse 17
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम्
Verse 18
सुव्यक्तं राजदोषो हि भविष्यति न संशयः पुरे जनपदे चापि ततो बालवधो ह्ययम्
Verse 19
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः राजानं दुःखसन्तप्तः सुतं तमुपगूहते
0:000:00
Speed: