🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 72

Sarga 72

21 verses

Verse 1
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम्
Verse 2
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः
Verse 3
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम्
Verse 4
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः
Verse 5
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् वाल्मीकिः सम्परिष्वज्य विससर्ज  राघवम्
Verse 6
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः
Verse 7
 प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः
Verse 8
 रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् पश्यन्नमरमध्यस्थं सहस्रनयनं यथा
Verse 9
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम्
Verse 10
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् हतः  लवणः पापः पुरी चास्य निवेशिता
Verse 11
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन नोत्सहेयमहं वस्तुं त्वया विरहितो नृप
Verse 12
 मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम मातृहीनो यथा वत्सो  चिरं प्रवसाम्यहम्
Verse 13
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम्
Verse 14
नावसीदन्ति राजानो विप्रवासेषु राघव प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव
Verse 15
काले काले तु मां वीर अयोध्यामवलोकितुम् आगच्छ त्वं नरश्रेष्ठ गन्तासि  पुरं तव
Verse 16
ममापि त्वं सुदयितः प्राणैरपि  संशयः अवश्यं करणीयं  राज्यस्य परिपालनम्
Verse 17
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः
Verse 18
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्
Verse 19
सप्तरात्रं  काकुत्स्थो राघवस्य यथाज्ञया उष्य तत्र महेष्वासो गमनायोपचक्रमे
Verse 20
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् भरतं लक्ष्मणं चैव महारथमुपारुहत्
Verse 21
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना भरतेन  शत्रुघ्नो जगामाशु पुरं ततः
0:000:00
Speed: