Book 7 • Chapter 71
Sarga 71
24 verses
Verse 1
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः
Verse 2
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च जगाम हयमुख्यैश्च रथानां च शतेन सः
Verse 3
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः
Verse 4
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः
Verse 5
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः कथयामास स मुनिः शत्रुघ्नाय महात्मने
Verse 6
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया
Verse 7
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः लवणेन महाबाहो युध्यमाना महाबलाः
Verse 8
स त्वया निहतः पापो लीलया पुरुषर्षभ जगतश्च भयं तत्र प्रशान्तं तव तेजसा
Verse 9
रावणस्य वधो घोरो यत्नेन महता कृतः इदं तु सुमहत्कर्म त्वया कृतमयत्नतः
Verse 10
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम्
Verse 11
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ सभायां वासवस्याथ उपविष्टेन राघव
Verse 12
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः
Verse 13
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः
Verse 14
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् शुश्राव रामचरितं तस्मिन्काले यथाकृमम्
Verse 15
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् संस्कृतं लक्षणोपेतं समतालसमन्वितम् शुश्राव रामचरितं तस्मिन्काले पुरा कृतम्
Verse 16
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः
Verse 17
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत्
Verse 18
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन्
Verse 19
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम्
Verse 20
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत्
Verse 21
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम्
Verse 22
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः
Verse 23
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम्
Verse 24
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा
0:000:00
Speed: