Book 7 • Chapter 70
Sarga 70
17 verses
Verse 1
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम्
Verse 2
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः हतः पुरुषशार्दूल वरं वरय सुव्रत
Verse 3
वरदास्तु महाबाहो सर्व एव समागताः विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः
Verse 4
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्
Verse 5
इयं मधुपुरी रस्या मधुरा देवनिर्मिता निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः
Verse 6
तं देवाः प्रीतमनसो बाढमित्येव राघवम् भविष्यति पुरी रम्या शूरसेना न संशयः
Verse 7
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत्
Verse 8
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् निवेशनं च शत्रुघ्नः श्रावणेन समारभत्
Verse 9
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे निविष्टा शूरसेनानां विषयश्चाकुतोभयः
Verse 10
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः अरोगवीरपुरुषा शत्रुघ्नभुजपालिता
Verse 11
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता
Verse 12
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम्
Verse 13
आरामैश्च विहारैश्च शोभमानं समन्ततः शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः
Verse 14
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् नानादेशागतैश्चापि वणिग्भिरुपशोभिताम्
Verse 15
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः निरीक्ष्य परमप्रीतः परं हर्षमुपागमत्
Verse 16
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते
Verse 17
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः
0:000:00
Speed: