Book 7 • Chapter 69
Sarga 69
40 verses
Verse 1
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
Verse 2
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च लवणो रघुशार्दूलमाह्वयामास चासकृत्
Verse 3
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत्
Verse 4
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया तदद्य बाणाभिहतो व्रज त्वं यमसादनम्
Verse 5
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम्
Verse 6
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर पुरे जनपदे चापि क्षेममेव भविष्यति
Verse 7
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः
Verse 8
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत्
Verse 9
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली
Verse 10
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः
Verse 11
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः
Verse 12
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै
Verse 13
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा
Verse 14
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् रक्षो लब्धान्तरमपि न विवेश स्वमालयम्
Verse 15
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत्
Verse 16
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः
Verse 17
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश
Verse 18
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् नतं पर्वसु सर्वेषु संयुगेष्वपराजितम्
Verse 19
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् दानवेन्द्राचलेन्द्राणामसुराणां च दारणम्
Verse 20
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन्
Verse 21
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम्
Verse 22
उवाच देवदेवेशं वरदं प्रपितामहम् देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति
Verse 23
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति
Verse 24
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः भयकारणमाचष्ट लोकानामभयङ्करः उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः
Verse 25
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः
Verse 26
एष पूर्वस्य देवस्य लोककर्तुः सनातनः शरस्तेजोमयो वत्सा येन वै भयमागतम्
Verse 27
एष वै कैटभस्यार्थे मधुनश्च महाशरः सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः
Verse 28
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः
Verse 29
इतो गच्छत पश्यध्वं वध्यमानं महात्मना रामानुजेन वीरेण लवणं राक्षसोत्तमम्
Verse 30
तस्य ते देवदेवस्य निशम्य वचनं सुराः आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ
Verse 31
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम्
Verse 32
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः
Verse 33
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः
Verse 34
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः तं मुमोच महाबाणं लवणस्य महोरसि
Verse 35
उरस्तस्य विदार्याशु प्रविवेश रसातलम्
Verse 36
गत्वा रसातलं दिव्यः शरो विबुधपूजितः पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम्
Verse 37
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः पपात सहसा भूमौ वज्राहत इवाचलः
Verse 38
तच्च शूलं महत्तेन हते लवणराक्षसे पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात्
Verse 39
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः
Verse 40
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः
0:000:00
Speed: