🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 68

Sarga 68

20 verses

Verse 1
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः
Verse 2
ततः प्रभाते विमले तस्मिन्काले  राक्षसः निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः
Verse 3
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत
Verse 4
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा  राक्षसः आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन्
Verse 5
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् तमुवाच ततो रक्षः किमनेन करिष्यसि
Verse 6
ईदृशानां सहस्राणि सायुधानां नराधम भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम्
Verse 7
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते
Verse 8
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत्
Verse 9
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन्
Verse 10
उवाच  सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह
Verse 11
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः
Verse 12
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् शत्रुस्त्वं सर्वभूतानां  मे जीवन्गमिष्यसि
Verse 13
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते
Verse 14
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम
Verse 15
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः
Verse 16
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा भूताश्चैव भविष्याश्च यूयं  पुरुषाधमाः
Verse 17
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते तिष्ठं त्वं  मुहूर्तं तु यावदायुधमानये ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम्
Verse 18
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि शत्रुर्यदृच्छया दृष्टो  मोक्तव्यः कृतात्मना
Verse 19
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ  हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा
Verse 20
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य  राघवस्य
0:000:00
Speed: