🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 67

Sarga 67

26 verses

Verse 1
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम्
Verse 2
शूलस्य  बलं ब्रह्मन्के  पूर्वं विनाशिताः अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः
Verse 3
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम्
Verse 4
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे
Verse 5
अयोध्यायां पुरा राजा युवनाश्वसुतो बली मान्धातेति  विख्यातस्त्रिषु लोकेषु वीर्यवान्
Verse 6
 कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः सुरलोकमितो जेतुमुद्योगमकरोन्नृपः
Verse 7
इन्द्रस्य  भयं तीव्रं सुराणां  महात्मनाम् मान्धातरि कृतोद्योगे देवलोकजिगीषया
Verse 8
अर्धासनेन शक्रस्य राज्यार्धेन  पार्थिवः वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत
Verse 9
तस्य पापमभिप्रायं विदित्वा पाकशासनः सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम्
Verse 10
राजा त्वं मानुषे लोके  तावत्पुरुषर्षभ अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि
Verse 11
यदि वीर समग्रा ते मेदिनी निखिला वशे देवराज्यं कुरुष्वेह सभृत्यबलवाहनः
Verse 12
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् क्व मे शक्र प्रतिहतं शासनं पृथिवीतले
Verse 13
तमुवाच सहस्राक्षो लवणो नाम राक्षसः मधुपुत्रो मधुवने  ते  ऽज्ञां कुरुते ऽनघ
Verse 14
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं  शशाक 
Verse 15
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः
Verse 16
 कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः
Verse 17
 काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः दूतं सम्प्रेषयामास सकाशं लवणस्य हि
Verse 18
 गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् वदन्तमेवं तं दूतं भक्षयामास राक्षसः
Verse 19
चिरायमाणे दूते तु राजा क्रोधसमन्वितः अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः
Verse 20
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना वधाय सानुबन्धस्य मुमोचायुधमुत्तमम्
Verse 21
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम्
Verse 22
एवं  राजा सुमहान्हतः सबलवाहनः शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम्
Verse 23
श्वः प्रभाते तु लवणं वधिष्यसि  संशयः अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव
Verse 24
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि  त्वया एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः
Verse 25
शूलस्य  बलं घोरमप्रमेयं नरर्षभ विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव
Verse 26
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र
0:000:00
Speed: