🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 66

Sarga 66

17 verses

Verse 1
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् तामेव रात्रिं सीतापि प्रसूता दारकद्वयम्
Verse 2
ततो ऽर्धरात्रसमये बालका मुनिदारकाः वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम्
Verse 3
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ततो रक्षां महातेजः कुरु भूतविनाशिनीम्
Verse 4
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ
Verse 5
जगाम तत्र हृष्टात्मा ददर्श  कुमारकौ भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम्
Verse 6
कुशमुष्टिमुपादाय लवं चैव तु  द्विजः वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्
Verse 7
यस्तयोः पूर्वजो जातः  कुशैर्मन्त्रसत्कृतैः निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत्
Verse 8
यश्चावरो भवेत्ताभ्यां लवेन  समाहितः निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः
Verse 9
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ मत्कृताभ्यां  नामभ्यां ख्यातियुक्तौ भविष्यतः
Verse 10
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः
Verse 11
तथा तां क्रियमाणां  वृद्धाभिर्जन्म नाम  सङ्कीर्तनं  रामस्य सीतायाः प्रसवौ शुभौ
Verse 12
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत्
Verse 13
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः
Verse 14
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः
Verse 15
 गत्वा यमुनातीरं सप्तरात्रोषितः पथि ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात्
Verse 16
 तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः कथाभिरभिरूपाभिर्वासं चक्रे महायशाः
Verse 17
 काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः
0:000:00
Speed: