🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 65

Sarga 65

39 verses

Verse 1
प्रस्थाप्य  बलं सर्वं मासमात्रोषितः पथि एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा
Verse 2
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम्
Verse 3
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच 
Verse 4
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम्
Verse 5
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः प्रत्युवाच महात्मानं स्वागतं ते महायशः
Verse 6
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि आसनं पाद्यमर्ध्यं  निर्विशङ्कः प्रतीच्छ मे
Verse 7
प्रतिगृह्य तदा पूजां फलमूलं  भोजनम् भक्षयामास काकुत्स्थस्तृप्तिं  परमां गतः
Verse 8
 भुक्त्वा फलमूलं  महर्षिं तमुवाच  इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः
Verse 9
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा
Verse 10
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः
Verse 11
 बाल एव सौदासो मृगयामुपचक्रमे चञ्चूर्यमाणं ददृशे  शूरो राक्षसद्वयम्
Verse 12
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः
Verse 13
 तु तौ राक्षसौ दृष्ट्वा निर्मृगं  वनं कृतम् क्रोधेन महता  ऽविष्टो जघानैकं महेषुणा
Verse 14
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत
Verse 15
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत्
Verse 16
यस्मादनपराधं त्वं सहायं मम जघ्निवान् तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम्
Verse 17
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत कालपर्याययोगेन राजा मित्रसहो ऽभवत्
Verse 18
राजापि यजते यज्ञमस्याश्रमसमीपतः अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत्
Verse 19
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत्
Verse 20
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् वसिष्ठरूपी राजानमिति होवाच राक्षसः
Verse 21
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम दीयतामिह शीघ्रं वै नात्र कार्या विचारणा
Verse 22
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः
Verse 23
हविष्यं सामिषं स्वादु यथा भवति भोजनम् तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः
Verse 24
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः  राक्षसः पुनस्तत्र सूदवेषमथाकरोत्
Verse 25
 मानुषमथो मांसं पार्थिवाय न्यवेदयत् इदं स्वादु हविष्यं  सामिषं चान्नमाहृतम्
Verse 26
 भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम्
Verse 27
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् क्रोधेन महता  ऽविष्टो व्याहर्तुमुपचक्रमे
Verse 28
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि तस्माद्भोजनमेतत्ते भविष्यति  संशयः
Verse 29
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत्
Verse 30
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः प्रतिशप्तुं  शक्तस्त्वं देवतुल्यं पुरोधसम्
Verse 31
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् व्यसर्जयत धर्मात्मा ततः पादौ सिषेच 
Verse 32
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः
Verse 33
 राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा
Verse 34
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं  तत् पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम्
Verse 35
मया रोषपरीतेन यदिदं व्याहृतं वचः नैतच्छक्यं वृथा कर्तुं प्रदास्यामि  ते वरम्
Verse 36
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति मत्प्रासादाच्च राजेन्द्र व्यतीतं  स्मरिष्यसि
Verse 37
एवं  राजा तं शापमुपभुज्यारिसूदनः प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत्
Verse 38
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव
Verse 39
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् विवेश पर्णशालायां महर्षिमभिवाद्य 
0:000:00
Speed: