🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 64

Sarga 64

18 verses

Verse 1
एवमुक्त्वा  काकुत्स्थं प्रशस्य  पुनः पुनः पुनरेवापरं वाक्यमुवाच रघुनन्दनः
Verse 2
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ रथानां द्वे सहस्रे  गजानां शतमुत्तमम्
Verse 3
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः
Verse 4
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः
Verse 5
बलं  सुभृतं वीर हृष्टपुष्टमनुद्धतम् सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम
Verse 6
 ह्यर्थास्तत्र तिष्ठन्ति  दारा   बान्धवाः सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव
Verse 7
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम्
Verse 8
यथा त्वां  प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम्
Verse 9
 तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ दर्शनं यो ऽभिगच्छेत  वध्यो लवणेन हि
Verse 10
 हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः
Verse 11
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम्
Verse 12
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः
Verse 13
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् सेनामुख्यान्समानीय ततो वाक्यमुवाच 
Verse 14
एते वो गणिता वासा यत्र तत्र निवत्स्यथ स्थातव्यं चाविरोधेन यथा बाधा  कस्यचित्
Verse 15
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य  महद्बलम् कौसल्यां  सुमित्रां  कैकेयीं चाभ्यवादयत्
Verse 16
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य  रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः
Verse 17
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः पुरोहितं वसिष्ठं  शत्रुघ्नः प्रयतात्मवान् प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः
Verse 18
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः
0:000:00
Speed: