Book 7 • Chapter 63
Sarga 63
31 verses
Verse 1
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह
Verse 2
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते
Verse 3
अवश्यं करणीयं च शासनं पुरुषर्षभ तव चैव महाभाग शासनं दुरतिक्रमम्
Verse 4
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति
Verse 5
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ
Verse 6
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः अधर्मसहितं चैव परलोकविवर्जितम्
Verse 7
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् मा द्वितीयेन दण्डो वै निपतेन्मयि मानद
Verse 8
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन
Verse 9
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा
Verse 10
सम्भारानभिषेकस्य आनयध्वं समाहिताः अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम्
Verse 11
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया
Verse 12
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा
Verse 13
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च
Verse 14
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः
Verse 15
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः
Verse 16
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा चक्रुस्ता राजभवने याश्चान्या राजयोषितः
Verse 17
ऋषयश्च महात्मानो यमुनातीरवासिनः हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात्
Verse 18
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन्
Verse 19
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन
Verse 20
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे
Verse 21
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः
Verse 22
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः मधुकैटभयोर्वीर विघाते वर्तमानयोः स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि
Verse 23
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा अनेन शरमुख्येन ततो लोकांश्चकार सः
Verse 24
नायं मया शरः पूर्वं रावणस्य वधार्थिना मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति
Verse 25
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम्
Verse 26
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम्
Verse 27
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि
Verse 28
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः
Verse 29
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ आह्वयेथा महाबाहो ततो हन्तासि राक्षसम्
Verse 30
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति यदि त्वेवं कृते वीर विनाशमुपयास्यति
Verse 31
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम्
0:000:00
Speed: