Book 7 • Chapter 62
Sarga 62
21 verses
Verse 1
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः किमाहारः किमाचारो लवणः क्व च वर्तते
Verse 2
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ततो निवेदयामासुर्लवणो ववृधे यथा
Verse 3
आहारः सर्वसत्त्वानि विशेषेण च तापसाः आचारो रौद्रता नित्यं वासो मधुवने तथा
Verse 4
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम्
Verse 5
ततो ऽन्तराणि सत्त्वानि खादते स महाबलः संहारे समनुप्राप्ते व्यादितास्य इवान्तकः
Verse 6
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम्
Verse 7
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः
Verse 8
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः
Verse 9
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् अहमेनं वधिष्यामि ममांशः स विधीयताम्
Verse 10
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम्
Verse 11
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः
Verse 12
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति
Verse 13
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा
Verse 14
फलमूलाशनो भूत्वा जटी चीरधरस्तथा अनुभूयेदृशं दुःखमेष राघवनन्दनः प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात्
Verse 15
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् एवं भवतु काकुत्स्थ क्रियतां मम शासनम्
Verse 16
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे निवेशय महाबाहो भरतं यद्यवेक्षसे
Verse 17
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने
Verse 18
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये न विधत्ते नृपं तत्र नरकं स हि गच्छति
Verse 19
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे
Verse 20
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः
Verse 21
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम्
0:000:00
Speed: