🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 61

Sarga 61

25 verses

Verse 1
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः
Verse 2
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् भयानां शृणु यन्मूलं देशस्य  नरेश्वर
Verse 3
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः
Verse 4
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या  परिनिष्ठितः सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत्
Verse 5
 मधुर्वीर्यसम्पन्नो धर्मे  सुसमाहितः बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः
Verse 6
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ  सः बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः
Verse 7
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच 
Verse 8
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम्
Verse 9
यावत्सुरैश्च विप्रैश्च  विरुध्येर्महासुर तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति
Verse 10
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम्
Verse 11
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः प्रणिपत्य महादेवं वाक्यमेतदुवाच 
Verse 12
भगवन्मम वंशस्य शूलमेतदनुत्तमम् भवेत्तु सततं देव सुराणामीश्वरो ह्यसि
Verse 13
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः प्रत्युवाच महातेजा नैतदेवं भविष्यति
Verse 14
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते
Verse 15
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते अवध्यः सर्वभूतानां शूलहस्तो भविष्यति
Verse 16
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम्
Verse 17
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा
Verse 18
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत्
Verse 19
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः मधुः  शोकमापेदे  चैनं किञ्चिदब्रवीत्
Verse 20
 विहाय त्विमं लोकं प्रविष्टो वरुणालयम् शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्
Verse 21
 प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा सन्तापयति लोकांस्त्रीन्विशेषेण  तापसान्
Verse 22
एवंप्रभावो लवणः शूलं चैव तथाविधम् श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः
Verse 23
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा अभयं याचिता वीर त्रातारं   विद्महे
Verse 24
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् त्रातारं विद्महे तात नान्यं भुवि नराधिपम् तत्परित्रातुमिच्छामो लवणाद्भयपीडितान्
Verse 25
इति राम निवेदितं तु ते भयजं कारणमुत्थितं  यत् विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम
0:000:00
Speed: