🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 60

Sarga 60

18 verses

Verse 1
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा वासन्तिकी निशा प्राप्ता  शीता   घर्मदा
Verse 2
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित्
Verse 3
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः
Verse 4
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः
Verse 5
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः
Verse 6
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः प्रवेशयामास तदा तापसान्सुदुरासदान्
Verse 7
शतं समधिकं तत्र दीप्यमानं स्वतेजसा प्रविष्टं राजभवनं तापसानां महात्मनाम्
Verse 8
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः गृहीत्वा फलमूलं  रामस्याभ्याहरन्बहु
Verse 9
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः तीर्थोदकानि सर्वाणि फलानि विविधानि 
Verse 10
उवाच  महाबाहुः सर्वानेव महामुनीन् इमान्यासनमुख्यानि यथार्हमुपविश्यताम्
Verse 11
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते
Verse 12
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्
Verse 13
किमागमनकार्यं वः किं करोमि समाहितः आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम्
Verse 14
इदं राज्यं  सकलं जीवितं  हृदि स्थितम् सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः
Verse 15
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ऋषीणामुग्रतपसां यमुनातीरवासिनाम्
Verse 16
ऊचुश्च ते महात्मानो हर्षेण महता वृताः उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः
Verse 17
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन्
Verse 18
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि
0:000:00
Speed: