Book 7 • Chapter 59
Sarga 59
23 verses
Verse 1
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः जरां परमिकां प्राप्य यदुं वचनमब्रवीत्
Verse 2
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् जरां परमिकां पुत्र भोगै रंस्ये महायशः
Verse 3
न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम्
Verse 4
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम्
Verse 5
बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम्
Verse 6
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम्
Verse 7
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः
Verse 8
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम्
Verse 9
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः बहुवर्षसहस्राणि पालयामास मेदिनीम्
Verse 10
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे
Verse 11
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः
Verse 12
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम्
Verse 13
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह
Verse 14
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव
Verse 15
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान्
Verse 16
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति
Verse 17
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह
Verse 18
ततः कालेन महता दिष्टान्तमुपजग्मिवान् त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः
Verse 19
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः
Verse 20
यदुस्तु जनयामास यातुधानान्सहस्रशः पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः
Verse 21
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे
Verse 22
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे
Verse 23
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव
0:000:00
Speed: