Book 7 • Chapter 58
Sarga 58
25 verses
Verse 1
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा
Verse 2
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह
Verse 3
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः
Verse 4
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम्
Verse 5
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते
Verse 6
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः
Verse 7
नहुषस्य सुतो राजा ययातिः पौरवर्धनः तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि
Verse 8
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः
Verse 9
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ न तु सा दयिता राज्ञो देवयानी सुमध्यमा
Verse 10
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा
Verse 11
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत्
Verse 12
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः सहसे हृद्गतं दुःखमवमानं च दुःसहम्
Verse 13
आवां च सहितौ देवि प्रविशाव हुताशनम् राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः
Verse 14
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः
Verse 15
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा
Verse 16
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा आगतस्त्वरितं तत्र देवयानी तु यत्र सा
Verse 17
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत्
Verse 18
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत्
Verse 19
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम्
Verse 20
न मां त्वमवजानीषे दुःखितामवमानिताम् वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः
Verse 21
अवज्ञया च राजर्षिः परिभूय च भार्गव मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते
Verse 22
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम्
Verse 23
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् जरया परया जीर्णः शैथिल्यमुपयास्यसि
Verse 24
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः
Verse 25
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय
0:000:00
Speed: