🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 57

Sarga 57

20 verses

Verse 1
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत्
Verse 2
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ
Verse 3
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः तां कथां कथयामास वसिष्ठस्य महात्मनः
Verse 4
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ
Verse 5
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत्
Verse 6
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम्
Verse 7
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम्
Verse 8
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः
Verse 9
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत्
Verse 10
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते तं  ते योजयामासुर्यागदीक्षां मनीषिणः
Verse 11
तं  देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः
Verse 12
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव
Verse 13
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् वरं वरय राजर्षे क्व ते चेतो निरूप्यताम्
Verse 14
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः
Verse 15
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि
Verse 16
त्वत्कृते  निमिष्यन्ति चक्षूंषि पृथिवीपते वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः
Verse 17
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन्
Verse 18
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा
Verse 19
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः
Verse 20
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत्
0:000:00
Speed: