🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 56

Sarga 56

29 verses

Verse 1
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम्
Verse 2
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ
Verse 3
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः
Verse 4
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ
Verse 5
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम्
Verse 6
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् पितामहमथोवाच वायुभूत इदं वचः
Verse 7
भगवन्निमिशापेन विदेहत्वमुपागमम् लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः
Verse 8
सर्वेषां देहहीनानां महद्दुःखं भविष्यति लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि
Verse 9
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः मित्रावरुणजं तेज प्रविश त्वं महायशः
Verse 10
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम धर्मेण महता युक्तः पुनरेष्यसि मे वशम्
Verse 11
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम्
Verse 12
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः
Verse 13
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः यदृच्छया तमुद्देशमाययौ सखिभिर्वृता
Verse 14
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये आविशत्परमो हर्षो वरुणं चोर्वशीकृते
Verse 15
 तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् वरुणो वरयामास मैथुनायाप्सरोवराम्
Verse 16
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर
Verse 17
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते
Verse 18
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम्
Verse 19
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच 
Verse 20
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो
Verse 21
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत्
Verse 22
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत्
Verse 23
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी
Verse 24
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि
Verse 25
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः तमद्य गच्छ दुर्बुद्धे  ते भर्ता भविष्यति
Verse 26
ततः सा शापदोषेण पुरूरवसमभ्यगात् प्रतियाते पुरूरवं बुधस्यात्मजमौरसम्
Verse 27
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः
Verse 28
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम्
Verse 29
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ 
0:000:00
Speed: