Book 7 • Chapter 55
Sarga 55
21 verses
Verse 1
एष ते नृगशापस्य विस्तरो ऽभिहितो मया यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम्
Verse 2
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप
Verse 3
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे
Verse 4
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः
Verse 5
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् निवेशयामास तदा अभ्याशे गौतमस्य तु
Verse 6
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः
Verse 7
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः
Verse 8
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम्
Verse 9
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम्
Verse 10
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय
Verse 11
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत्
Verse 12
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत्
Verse 13
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः
Verse 14
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः
Verse 15
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम्
Verse 16
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे
Verse 17
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव चेतनेन विनाभूतो देहस्तव भविष्यति
Verse 18
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः
Verse 19
अजानतः शयानस्य क्रोधेन कलुषीकृतः मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम्
Verse 20
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः देहः सुरुचिरप्रख्यो भविष्यति न संशयः
Verse 21
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ
0:000:00
Speed: