Book 7 • Chapter 54
Sarga 54
19 verses
Verse 1
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम्
Verse 2
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः महान्नृगस्य राजर्षेर्यमदण्ड इवापरः
Verse 3
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ
Verse 4
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः
Verse 5
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः
Verse 6
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः
Verse 7
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ
Verse 8
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम्
Verse 9
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः
Verse 10
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः
Verse 11
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः
Verse 12
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः परिवार्य यथा मे स्युरध्यर्धं योजनं तथा
Verse 13
एवं कृत्वा विधानं स सन्दिदेश वसं तदा धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय
Verse 14
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे
Verse 15
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः
Verse 16
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति लब्धव्यान्येव लभते दुःखानि च सुखानि च
Verse 17
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह
Verse 18
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ
Verse 19
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम्
0:000:00
Speed: