Book 7 • Chapter 53
Sarga 53
26 verses
Verse 1
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह
Verse 2
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः
Verse 3
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण तन्निशामय च श्रुत्वा कुरुष्व वचनं मम
Verse 4
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति
Verse 5
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ
Verse 6
पौरकार्याणि यो राजा न करोति दिने दिने संवृते नरके घोरे पतितो नात्र संशयः
Verse 7
श्रूयते हि पुरा राजा नृगो नाम महायशाः बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः
Verse 8
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः
Verse 9
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः
Verse 10
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून्
Verse 11
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने
Verse 12
अथ तां नामधेयेन स्वकेनोवाच स द्विजः आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम्
Verse 13
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम्
Verse 14
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम्
Verse 15
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः
Verse 16
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः तौ राजभवनद्वारि न प्राप्तौ नृगशासनम्
Verse 17
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम्
Verse 18
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् अदृश्यः सर्वभूतानां कृकलासो भविष्यसि
Verse 19
बहुवर्षसहस्राणि बहुवर्षशतानि च श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि
Verse 20
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः
Verse 21
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि कृता च तेन कालेन निष्कृतिस्ते भविष्यति
Verse 22
भारावतरणार्थं हि नरनारायणावुभौ उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते
Verse 23
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै
Verse 24
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम्
Verse 25
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः
Verse 26
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः
0:000:00
Speed: