Book 7 • Chapter 52
Sarga 52
19 verses
Verse 1
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा
Verse 2
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम्
Verse 3
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः रामपादौ समासाद्य वक्ष्यामि किमहं गतः
Verse 4
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् रामस्य परमोदारं पुरस्तान्समदृश्यत
Verse 5
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः
Verse 6
स दृष्ट्वा राघवं दीनमासीनं परमासने नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः
Verse 7
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः
Verse 8
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ
Verse 9
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् पुनरप्यागतो वीर पादमूलमुपासितुम्
Verse 10
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः
Verse 11
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
Verse 12
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्
Verse 13
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः
Verse 14
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः अपवादः स किल ते पुनरेष्यति राघव
Verse 15
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप सो ऽपवादः पुरे राजन्भविष्यति न संशयः
Verse 16
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह
Verse 17
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः
Verse 18
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण परितोषश्च मे वीर मम कार्यानुशासने
Verse 19
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण
0:000:00
Speed: