Book 7 • Chapter 51
Sarga 51
31 verses
Verse 1
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे
Verse 2
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह
Verse 3
तमाश्रमं महातेजाः पिता ते सुमहायशाः पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम्
Verse 4
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम्
Verse 5
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् स ताभ्यां पूजितो राजा स्वागतेनासनेन च
Verse 6
पाद्येन फलमूलैश्च उवास मुनिभिः सह
Verse 7
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि
Verse 8
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः उवाच तं महात्मानमत्रेः पुत्रं तपोधनम्
Verse 9
भगवन्किं प्रमाणेन मम वंशो भविष्यति किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः
Verse 10
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् काम्यया भगवन्बूहि वंशस्यास्य गतिं मम
Verse 11
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे
Verse 12
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः
Verse 13
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत्
Verse 14
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम्
Verse 15
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन
Verse 16
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम्
Verse 17
शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत्
Verse 18
अर्चयामास तं देवं भृगुः शापेन पीडितः तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान्
Verse 19
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि इहागतो हि पुत्रत्वं तव पार्थिवसत्तम
Verse 20
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत्
Verse 21
अयोध्यायाः पती रामो दीर्घकालं भविष्यति सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः
Verse 22
दश वर्षसहस्राणि दश वर्षशतानि च रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति
Verse 23
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः राजवंशांश्च बहुशो बहून्संस्थापयिष्यति
Verse 24
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः
Verse 25
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः
Verse 26
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः
Verse 27
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम्
Verse 28
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति
Verse 29
एवं गते न सन्तापं कर्तुमर्हसि राघव सीतार्थे राघवार्थे वा दृढो भव नरोत्तम
Verse 30
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
Verse 31
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि अस्तमर्के गते वासं केशिन्यां तावथोषतुः
0:000:00
Speed: