🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 50

Sarga 50

20 verses

Verse 1
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः
Verse 2
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् सीतासन्तापजं दुःखं पश्य रामस्य सारथे
Verse 3
ततो दुःखतरं किं नु राघवस्य भविष्यति पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम्
Verse 4
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम्
Verse 5
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः निहन्याद्राघवः क्रुद्धः  दैवमनुवर्तते
Verse 6
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने उषित्वा नव वर्षाणि पञ्च चैव महावने
Verse 7
ततो दुःखतरं भूयः सीताया विप्रवासनम् पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे
Verse 8
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः
Verse 9
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच 
Verse 10
 सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः
Verse 11
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् प्राप्स्यते  महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम्
Verse 12
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ सन्त्यजिष्यति धर्मात्मा कालेन महता महान्
Verse 13
इदं त्वयि  वक्तव्यं सौमित्रे भरते ऽपि वा राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच 
Verse 14
महाजनसमीपे  मम चैव नरर्षभ ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य  सन्निधौ
Verse 15
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः सूत  क्वचिदेवं ते वक्तव्यं जनसन्निधौ
Verse 16
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम्
Verse 17
सर्वथैव  वक्तव्यं मया सौम्य तवाग्रतः यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन
Verse 18
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम्
Verse 19
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम्  त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ
Verse 20
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत्
0:000:00
Speed: