Book 7 • Chapter 49
Sarga 49
24 verses
Verse 1
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः
Verse 2
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम्
Verse 3
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना
Verse 4
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता
Verse 5
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत्
Verse 6
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् आश्रमस्याविदूरे च त्वामियं शरणं गता
Verse 7
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली
Verse 8
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः
Verse 9
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत्
Verse 10
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः उवाच मधुरां वाणीं ह्लादयन्निव तेजसा
Verse 11
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते
Verse 12
आयान्ती चासि विज्ञाता मया धर्मसमाधिना कारणं चैव सर्वं मे हृदयेनोपलक्षितम्
Verse 13
तव चैव महाभागे विदितं मम तत्त्वतः सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते
Verse 14
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे
Verse 15
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः
Verse 16
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः
Verse 17
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः
Verse 18
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात्
Verse 19
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन्
Verse 20
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे
Verse 21
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः
Verse 22
स्नुषा दशरथस्यैषा जनकस्य सुता सती अपापा पतिना त्यक्ता परिपाल्या मया सदा
Verse 23
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः
Verse 24
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः
0:000:00
Speed: