Book 7 • Chapter 48
Sarga 48
26 verses
Verse 1
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा परं विषादमागम्य वैदेही निपपात ह
Verse 2
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा लक्ष्मणं दीनया वाचा उवाच जनकात्मजा
Verse 3
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते
Verse 4
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती
Verse 5
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी
Verse 6
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा
Verse 7
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना
Verse 8
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते
Verse 9
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम
Verse 10
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्
Verse 11
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः
Verse 12
जानासि च यथा शुद्धा सीता तत्त्वेन राघव भक्त्या च परया युक्ता हिता च तव नित्यशः
Verse 13
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने यच्च ते वचनीयं स्यादपवादसमुत्थितम् मया च परिहर्तव्यं त्वं हि मे परमा गतिः
Verse 14
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा
Verse 15
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा
Verse 16
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् अहं तु नानुशोचामि स्वशरीरं नरर्षभ
Verse 17
यथापवादं पौराणां तथैव रघुनन्दन पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः
Verse 18
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम्
Verse 19
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह
Verse 20
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने
Verse 21
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे कथमत्र हि पश्यामि रामेण रहितां वने
Verse 22
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत्
Verse 23
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम्
Verse 24
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ
Verse 25
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत्
Verse 26
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती
0:000:00
Speed: