🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 47

Sarga 47

18 verses

Verse 1
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्
Verse 2
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः उवाच शोकसन्तप्तः प्रयाहीति  नाविकम्
Verse 3
ततस्तीरमुपागम्य भागीरथ्याः  लक्ष्मणः उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः
Verse 4
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः
Verse 5
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत्  चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते
Verse 6
प्रसीद   मे पापं कर्तुमर्हसि शोभने इत्यञ्जलिकृतो भूमौ निपपात  लक्ष्मणः
Verse 7
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्
Verse 8
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण पश्यामि त्वां   स्वस्थमपि क्षेमं महीपतेः
Verse 9
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते
Verse 10
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच 
Verse 11
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् पुरे जनपदे चैव त्वत्कृते जनकात्मजे रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः
Verse 12
 तानि वचनीयानि मया देवि तवाग्रतः यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः
Verse 13
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ पौरापवादभीतेन ग्राह्यं देवि  ते ऽन्यथा
Verse 14
आश्रमान्तेषु  मया त्यक्तव्या त्वं भविष्यसि राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम्
Verse 15
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् पुण्यं  रमणीयं  मा विषादं कृथाः शुभे
Verse 16
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः सखा परमको विप्रो वाल्मीकिः सुमहायशाः
Verse 17
पादच्छायामुपागम्य सुखमस्य महात्मनः उपवासपरैकाग्रा वस त्वं जनकात्मजे
Verse 18
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति
0:000:00
Speed: