🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 46

Sarga 46

34 verses

Verse 1
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता
Verse 2
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु
Verse 3
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् मया नेया महर्षीणां श्रीघ्रमानीयतां रथः
Verse 4
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया
Verse 5
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो
Verse 6
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः प्रविश्य सीतामासाद्य व्याजहार नरर्षभः
Verse 7
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः नृपेण  प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति
Verse 8
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि
Verse 9
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत्
Verse 10
वासांसि  महार्हाणि रत्नानि विविधानि  गृहीत्वा तानि वैदेही गमनायोपचक्रमे
Verse 11
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् वस्त्राणि  महार्हाणि धनानि विविधानि 
Verse 12
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन्
Verse 13
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् अशुभानि बहून्येव पश्यामि रघुनन्दन
Verse 14
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये
Verse 15
औत्सुक्यं परमं चापि अधृतिश्च परा मम शून्यामेव  पश्यामि पृथिवीं पृथुलोचन
Verse 16
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल श्वश्रूणां चैव मे वीर सर्वासामविशेषतः
Verse 17
पुरे जनपदे चैव कुशलं प्राणिनामपि इत्यञ्जलिकृता सीता देवता अभ्ययाचत
Verse 18
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता
Verse 19
ततो वासमुपागम्य गोमतीतीर आश्रमे प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत्
Verse 20
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा
Verse 21
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत्
Verse 22
सा तु सूतस्य वचनादारुरोह रथोत्तमम् सीता सौमित्रिणा सार्धं सुमन्त्रेण  धीमता
Verse 23
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्
Verse 24
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः
Verse 25
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया
Verse 26
जाह्नवीतीरमासाद्य चिराभिलषितं मम हर्षकाले किमर्थं मां विषादयसि लक्ष्मण
Verse 27
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः
Verse 28
ममापि दयितो रामो जीवितादपि लक्ष्मण  चाहमेवं शोचामि मैवं त्वं बालिशो भव
Verse 29
तारयस्व  मां गङ्गां दर्शयस्व  तापसान् ततो मुनिभ्यो दास्यामि वांसास्याभरणानि 
Verse 30
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः
Verse 31
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् त्वरते हि मनो द्रष्टुं रामं रमयतां वरम्
Verse 32
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे नाविकानाह्वयामास लक्ष्मणः परवीरहा
Verse 33
इयं  सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन्
Verse 34
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः
0:000:00
Speed: